भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.023

2.023.01

गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् ।
ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥

2.023.02

देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः ।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि ॥

2.023.03

आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम् ऋतस्य तिष्ठसि ।
बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥

2.023.04

सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम् अंहो अश्नवत् ।
ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम् ॥

2.023.05

न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः ।
विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ॥

2.023.06

त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे ।
बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती ॥

2.023.07

उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः ।
बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥

2.023.08

त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् ।
बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नम् उन् नशन् ॥

2.023.09

त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि ।
या नो दूरे तळितो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः ॥

2.023.10

त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।
मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस् तारिषीमहि ॥

2.023.11

अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु सासहिः ।
असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः ॥

2.023.12

अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघांसति ।
बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥

2.023.13

भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-धनम् ।
विश्वा इद् अर्यो अभिदिप्स्वो3 मृधो बृहस्पतिर् वि ववर्हा रथाँ इव ॥

2.023.14

तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् ।
आविस् तत् कृष्व यद् असत् त उक्थ्य1म् बृहस्पते वि परिरापो अर्दय ॥

2.023.15

बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।
यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥

2.023.16

मा नः स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः ।
आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥

2.023.17

विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः ।
स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि ॥

2.023.18

तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद् अङ्गिरः ।
इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम् ॥

2.023.19

ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc