ऋग्वेद · अध्याय 2.022
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् ।
स ईम् ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥
अध त्विषीमाँ अभ्य् ओजसा क्रिविं युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे ।
अधत्तान्यं जठरे प्रेम् अरिच्यत सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥
साकं जातः क्रतुना साकम् ओजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः ।
दाता राधः स्तुवते काम्यं वसु सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥
तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमम् पूर्व्यं दिवि प्रवाच्यं कृतम् ।
यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः ।
भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर् विदाद् इषम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0