ऋग्वेद · अध्याय 2.021
विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।
अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥
अभिभुवे ऽभिभङ्गाय वन्वते ऽषाळ्हाय सहमानाय वेधसे ।
तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥
सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम् उक्षितः ।
वृतंचयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या ॥
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः ।
रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत् ॥
यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।
अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत ॥
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे ।
पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0