ऋग्वेद · अध्याय 2.020
वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न रथम् ।
विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो नॄन् ॥
त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् ।
त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ॥
स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता ।
यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं च प्रणेषत् ॥
तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः शाशदुश् च ।
स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ॥
सो अङ्गिरसाम् उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम् इष्णन् ।
मुष्णन्न् उषसः सूर्येण स्तवान् अश्नस्य चिच् छिश्नथत् पूर्व्याणि ॥
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे दस्मतमः ।
अव प्रियम् अर्शसानस्य साह्वाञ् छिरो भरद् दासस्य स्वधावान् ॥
स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीर् ऐरयद् वि ।
अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य तूतोत् ॥
तस्मै तवस्य1म् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ ।
प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर आयसीर् नि तारीत् ॥
नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0