भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.019

2.019.01

अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः ॥

2.019.02

अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् ।
प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ॥

2.019.03

स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् ।
अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ॥

2.019.04

सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् ।
सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ ॥

2.019.05

स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् ।
आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ॥

2.019.06

स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं कुत्साय ।
दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य ॥

2.019.07

एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः ।
अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः ॥

2.019.08

एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।
ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ॥

2.019.09

नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc