भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.018

2.018.01

प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः ।
दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ॥

2.018.02

सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता ।
अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥

2.018.03

हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन ।
मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये ॥

2.018.04

आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः ।
आष्टाभिर् दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस् कः ॥

2.018.05

आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः ।
आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥

2.018.06

आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः ।
अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥

2.018.07

मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य ।
पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व ॥

2.018.08

न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत ।
उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम ॥

2.018.09

नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc