भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.017

2.017.01

तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते ।
विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ॥

2.017.02

स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् ।
शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत ॥

2.017.03

अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः ।
रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्य1क् पृथक् ॥

2.017.04

अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत ।
आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता सम् अव्ययत् ॥

2.017.05

स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः ।
अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः ॥

2.017.06

सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि ।
येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ॥

2.017.07

अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् ।
कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो3 येन मामहः ॥

2.017.08

भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान् ।
अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः ॥

2.017.09

नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc