भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.016

2.016.01

प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे ।
इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे हवामहे ॥

2.016.02

यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या ।
जठरे सोमं तन्वी3 सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ॥

2.016.03

न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः ।
न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ॥

2.016.04

विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते ।
वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥

2.016.05

वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे ।
वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥

2.016.06

वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा ।
वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥

2.016.07

प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः ।
कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः सिचामहे ॥

2.016.08

पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं यवसस्य पिप्युषी ।
सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि ॥

2.016.09

नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc