भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.015

2.015.01

प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।
त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ॥

2.015.02

अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् ।
स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार ॥

2.015.03

सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् ।
वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥

2.015.04

स प्रवोळ्हॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ ।
सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ॥

2.015.05

स ईम् महीं धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति ।
त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार ॥

2.015.06

सोदञ्चं सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष ।
अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार ॥

2.015.07

स विद्वाँ अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् ।
प्रति श्रोणः स्थाद् व्य् अ1नग् अचष्ट सोमस्य ता मद इन्द्रश् चकार ॥

2.015.08

भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् ।
रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ॥

2.015.09

स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र दभीतिम् आवः ।
रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश् चकार ॥

2.015.10

नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc