ऋग्वेद · अध्याय 2.014
अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः ।
कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ॥
अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् ।
तस्मा एतम् भरत तद्वशायँ एष इन्द्रो अर्हति पीतिम् अस्य ॥
अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः ।
तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥
अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।
यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे हिनोत ॥
अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो व्यंसम् ।
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥
अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः ।
यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै ॥
अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् ।
कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ॥
अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे ।
गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥
अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं वन उन् नयध्वम् ।
जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं जुहोत ॥
अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् ।
वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ॥
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।
तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो अस्तु ॥
अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् ।
इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0