भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.013

2.013.01

ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते ।
तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ॥

2.013.02

सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् ।
समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥

2.013.03

अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते ।
विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥

2.013.04

प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते ।
असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ॥

2.013.05

अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः ।
तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ॥

2.013.06

यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ ।
स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः ॥

2.013.07

यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अ1वनीर् अधारयः ।
यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वाँ अभितः सास्य् उक्थ्यः ॥

2.013.08

यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः ।
ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ॥

2.013.09

शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ ।
अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः ॥

2.013.10

विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे कृत्नवे धनम् ।
षळ् अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्य् उक्थ्यः ॥

2.013.11

सुप्रवाचनं तव वीर वीर्य1ं यद् एकेन क्रतुना विन्दसे वसु ।
जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः ॥

2.013.12

अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् ।
नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ॥

2.013.13

अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् ।
इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc