ऋग्वेद · अध्याय 2.012
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥
यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् ।
यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ॥
यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य ।
यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः ।
श्वघ्नीव यो जिगीवाँल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ॥
यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् ।
सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ॥
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः ।
समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥
यः शश्वतो मह्य् एनो दधानान् अमन्यमानाञ् छर्वा जघान ।
यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ॥
यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् ।
ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥
यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् ।
यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ॥
द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते ।
यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ॥
यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती ।
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0