ऋग्वेद · अध्याय 2.011
श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् ।
इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।
अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः ॥
उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च ।
तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर् दधानाः ।
शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः ॥
गुहा हितं गुह्यं गूळ्हम् अप्स्व् अपीवृतम् मायिनं क्षियन्तम् ।
उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ॥
स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि ।
स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ॥
हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम् ।
वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन् ॥
नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् ।
दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम् पप्रथन् नि ॥
इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन् निः ।
अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥
अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् ।
नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ॥
पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः ।
पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव ॥
त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः ।
अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ॥
स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः ।
शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥
रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं नः ।
सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ॥
व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र ।
अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ॥
बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् ।
स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ॥
उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र ।
प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥
धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् ।
अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ॥
सनेम ये त ऊतिभिस् तरन्तो विश्वाः स्पृध आर्येण दस्यून् ।
अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपम् अरन्धयः साख्यस्य त्रिताय ॥
अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो अस्तः ।
अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान् ॥
नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0