भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.010

2.010.01

जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत् समिद्धः ।
श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्य1ः स वाजी ॥

2.010.02

श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर् अमृतो विचेताः ।
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥

2.010.03

उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु गर्भः ।
शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः ॥

2.010.04

जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥

2.010.05

आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत ।
मर्यश्रीः स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा3 जर्भुराणः ॥

2.010.06

ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम ।
अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc