ऋग्वेद · अध्याय 2.009
नि होता होतृषदने विदानस् त्वेषो दीदिवाँ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता ।
अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।
यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे समिद्धे ॥
अग्ने यजस्व हविषा यजीयाञ् छ्रुष्टी देष्णम् अभि गृणीहि राधः ।
त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥
उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म ।
कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य रायः ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0