ऋग्वेद · अध्याय 2.008
वाजयन्न् इव नू रथान् योगाँ अग्नेर् उप स्तुहि ।
यशस्तमस्य मीळ्हुषः ॥
यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् ।
चारुप्रतीक आहुतः ॥
य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते ।
यस्य व्रतं न मीयते ॥
आ यः स्व1र् ण भानुना चित्रो विभात्य् अर्चिषा ।
अञ्जानो अजरैर् अभि ॥
अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः ।
विश्वा अधि श्रियो दधे ॥
अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् ।
अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0