भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.007

2.007.01

श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर ।
वसो पुरुस्पृहं रयिम् ॥

2.007.02

मा नो अरातिर् ईशत देवस्य मर्त्यस्य च ।
पर्षि तस्या उत द्विषः ॥

2.007.03

विश्वा उत त्वया वयं धारा उदन्या इव ।
अति गाहेमहि द्विषः ॥

2.007.04

शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे ।
त्वं घृतेभिर् आहुतः ॥

2.007.05

त्वं नो असि भारताग्ने वशाभिर् उक्षभिः ।
अष्टापदीभिर् आहुतः ॥

2.007.06

द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस् पुत्रो अद्भुतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc