ऋग्वेद · अध्याय 10.165
देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम ।
तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु ।
अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥
हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्र्याम् पदं कृणुते अग्निधाने ।
शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह देवाः कपोतः ॥
यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति ।
यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ॥
ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् ।
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0