ऋग्वेद · अध्याय 10.166
ऋषभम् मा समानानां सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।
अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ॥
अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया ।
वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ॥
अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना ।
आ वश् चित्तम् आ वो व्रतम् आ वो ऽहं समितिं ददे ॥
योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् ।
अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0