भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.149

10.149.01

सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृंहत् ।
अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं सविता समुद्रम् ॥

10.149.02

यत्रा समुद्रः स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद ।
अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ॥

10.149.03

पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना ।
सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म ॥

10.149.04

गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना दुहाना ।
पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः ॥

10.149.05

हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् ।
एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc