भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.148

10.148.01

सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश् च तुविनृम्ण वाजम् ।
आ नो भर सुवितं यस्य चाकन् त्मना तना सनुयाम त्वोताः ॥

10.148.02

ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण सह्याः ।
गुहा हितं गुह्यं गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न सोमम् ॥

10.148.03

अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणां विप्रः सुमतिं चकानः ।
ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यं रथोळ्ह भक्षैः ॥

10.148.04

इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।
तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत उत स्तीन् ॥

10.148.05

श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः ।
आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc