ऋग्वेद · अध्याय 10.139
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाँ अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ॥
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् ।
स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः ।
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥
विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् ।
तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधीँर् अपश्यत् ॥
विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः ।
यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः ॥
सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् ।
प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0