ऋग्वेद · अध्याय 10.138
तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् ।
यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ॥
अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् ।
अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥
वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय प्रतिमानम् आर्यः ।
दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवाँ ऋजिश्वना ॥
अनाधृष्टानि धृषितो व्य् आस्यन् निधीँर् अदेवाँ अमृणद् अयास्यः ।
मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूँर् अशृणाद् विरुक्मता ॥
अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते ।
इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः ॥
एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् ।
मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0