भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.128

10.128.01

ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम ।
मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥

10.128.02

मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः ।
ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥

10.128.03

मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः ।
दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः ॥

10.128.04

मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ॥

10.128.05

देवीः षळ् उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् ।
मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥

10.128.06

अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् ।
प्रत्यञ्चो यन्तु निगुतः पुनस् ते3 ऽमैषां चित्तम् प्रबुधां वि नेशत् ॥

10.128.07

धाता धातॄणाम् भुवनस्य यस् पतिर् देवं त्रातारम् अभिमातिषाहम् ।
इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥

10.128.08

उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥

10.128.09

ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् ।
वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc