ऋग्वेद · अध्याय 10.127
रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अ1क्षभिः ।
विश्वा अधि श्रियो ऽधित ॥
ओर्व् अप्रा अमर्त्या निवतो देव्य् उ1द्वतः ।
ज्योतिषा बाधते तमः ॥
निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती ।
अपेद् उ हासते तमः ॥
सा नो अद्य यस्या वयं नि ते यामन्न् अविक्ष्महि ।
वृक्षे न वसतिं वयः ॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
नि श्येनासश् चिद् अर्थिनः ॥
यावया वृक्य1ं वृकं यवय स्तेनम् ऊर्म्ये ।
अथा नः सुतरा भव ॥
उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित ।
उष ऋणेव यातय ॥
उप ते गा इवाकरं वृणीष्व दुहितर् दिवः ।
रात्रि स्तोमं न जिग्युषे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0