भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.122

10.122.01

वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् ।
स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ॥

10.122.02

जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो ।
घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम् ॥

10.122.03

सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व ।
सुवीरेण रयिणाग्ने स्वाभुवा यस् त आनट् समिधा तं जुषस्व ॥

10.122.04

यज्ञस्य केतुम् प्रथमम् पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् ।
शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम् पृणते सुवीर्यम् ॥

10.122.05

त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व ।
त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर् भृगवो वि रुरुचुः ॥

10.122.06

इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो ।
अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे ॥

10.122.07

त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः ।
त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे ॥

10.122.08

नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः ।
रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc