भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.121

10.121.01

हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

10.121.02

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

10.121.03

यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव ।
य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

10.121.04

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

10.121.05

येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥

10.121.06

यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने ।
यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥

10.121.07

आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥

10.121.08

यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् ।
यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥

10.121.09

मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान ।
यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥

10.121.10

प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc