ऋग्वेद · अध्याय 10.104
असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञम् उप याहि तूयम् ।
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥
अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व ।
मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ॥
प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् ।
इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ॥
ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ॥
प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः ।
मंहिष्ठाम् ऊतिं वितिरे दधानाः स्तोतार इन्द्र तव सूनृताभिः ॥
उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।
इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वाँ अस्य् अध्वरस्य प्रकेतः ॥
सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम् ।
उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः पनन्त ॥
सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् ।
नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ॥
अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः ।
इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः ॥
वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे ।
आर्दयद् वृत्रम् अकृणोद् उ लोकं ससाहे शक्रः पृतना अभिष्टिः ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0