ऋग्वेद · अध्याय 10.103
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन ।
संसृष्टजित् सोमपा बाहुशर्ध्य् उ1ग्रधन्वा प्रतिहिताभिर् अस्ता ॥
बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः ।
प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।
इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं रभध्वम् ॥
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाळ् अयुध्यो3 ऽस्माकं सेना अवतु प्र युत्सु ॥
इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रम् ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतां शर्ध उग्रम् ।
महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनांसि ।
उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्व् अस्माँ उ देवा अवता हवेषु ॥
अमीषां चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।
अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0