भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.102

10.102.01

प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया ।
अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव ॥

10.102.02

उत् स्म वातो वहति वासो ऽस्या अधिरथं यद् अजयत् सहस्रम् ।
रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं व्य् अचेद् इन्द्रसेना ॥

10.102.03

अन्तर् यच्छ जिघांसतो वज्रम् इन्द्राभिदासतः ।
दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ॥

10.102.04

उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद् अभिमातिम् एति ।
प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन् ॥

10.102.05

न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः ।
तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ॥

10.102.06

ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी ।
दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥

10.102.07

उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र शिक्षन् ।
इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान् ॥

10.102.08

शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व् आनह्यमानः ।
नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त ॥

10.102.09

इमं तम् पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।
येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ॥

10.102.10

आरे अघा को न्व् इ1त्था ददर्श यं युञ्जन्ति तम् व् आ स्थापयन्ति ।
नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत् ॥

10.102.11

परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव सिञ्चन् ।
एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ॥

10.102.12

त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः ।
वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc