भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.101

10.101.01

उद् बुध्यध्वं समनसः सखायः सम् अग्निम् इन्ध्वम् बहवः सनीळाः ।
दधिक्राम् अग्निम् उषसं च देवीम् इन्द्रावतो ऽवसे नि ह्वये वः ॥

10.101.02

मन्द्रा कृणुध्वं धिय आ तनुध्वं नावम् अरित्रपरणीं कृणुध्वम् ।
इष्कृणुध्वम् आयुधारं कृणुध्वम् प्राञ्चं यज्ञम् प्र णयता सखायः ॥

10.101.03

युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः पक्वम् एयात् ॥

10.101.04

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नया ॥

10.101.05

निर् आहावान् कृणोतन सं वरत्रा दधातन ।
सिञ्चामहा अवतम् उद्रिणं वयं सुषेकम् अनुपक्षितम् ॥

10.101.06

इष्कृताहावम् अवतं सुवरत्रं सुषेचनम् ।
उद्रिणं सिञ्चे अक्षितम् ॥

10.101.07

प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत् कृणुध्वम् ।
द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं सिञ्चता नृपाणम् ॥

10.101.08

व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वम् बहुला पृथूनि ।
पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो दृंहता तम् ॥

10.101.09

आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियाम् इह ।
सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥

10.101.10

आ तू षिञ्च हरिम् ईं द्रोर् उपस्थे वाशीभिस् तक्षताश्मन्मयीभिः ।
परि ष्वजध्वं दश कक्ष्याभिर् उभे धुरौ प्रति वह्निं युनक्त ॥

10.101.11

उभे धुरौ वह्निर् आपिब्दमानो ऽन्तर् योनेव चरति द्विजानिः ।
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वम् अखनन्त उत्सम् ॥

10.101.12

कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत वाजसातये ।
निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc