भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.100

10.100.01

इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा बोधि नो वृधे ।
देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.02

भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे क्रन्ददिष्टये ।
गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.03

आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय सुन्वते ।
यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.04

इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य् एतु नः ।
यथा-यथा मित्रधितानि संदधुर् आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.05

इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य् आयुषः ।
यज्ञो मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.06

इन्द्रस्य नु सुकृतं दैव्यं सहो ऽग्निर् गृहे जरिता मेधिरः कविः ।
यज्ञश् च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.07

न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् ।
माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.08

अपामीवां सविता साविषन् न्य1ग् वरीय इद् अप सेधन्त्व् अद्रयः ।
ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.09

ऊर्ध्वो ग्रावा वसवो ऽस्तु सोतरि विश्वा द्वेषांसि सनुतर् युयोत ।
स नो देवः सविता पायुर् ईड्य आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.10

ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे ।
तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.11

क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः सुतावताम् ।
पूर्णम् ऊधर् दिव्यं यस्य सिक्तय आ सर्वतातिम् अदितिं वृणीमहे ॥

10.100.12

चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः ।
रजिष्ठया रज्या पश्व आ गोस् तूतूर्षति पर्य् अग्रं दुवस्युः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc