ऋग्वेद · अध्याय 10.099
कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं वावृधध्यै ।
कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम् अपिन्वत् ॥
स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा ससाद ।
स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य मायाः ॥
स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत् सनिष्यन् ।
अनर्वा यच् छतदुरस्य वेदो घ्नञ् छिश्नदेवाँ अभि वर्पसा भूत् ॥
स यह्व्यो3 ऽवनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः ।
अपादो यत्र युज्यासो ऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥
स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् ।
वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ॥
स इद् दासं तुवीरवम् पतिर् दन् षळक्षं त्रिशीर्षाणं दमन्यत् ।
अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ॥
स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय शरुम् ।
स नृतमो नहुषो ऽस्मत् सुजातः पुरो ऽभिनद् अर्हन् दस्युहत्ये ॥
सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे ।
उप यत् सीदद् इन्दुं शरीरैः श्येनो ऽयोपाष्टिर् हन्ति दस्यून् ॥
स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे परादात् ।
अयं कविम् अनयच् छस्यमानम् अत्कं यो अस्य सनितोत नृणाम् ॥
अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न मायी ।
अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ॥
अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण पिप्रोः ।
सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा भूत् ॥
एवा महो असुर वक्षथाय वम्रकः पड्भिर् उप सर्पद् इन्द्रम् ।
स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0