ऋग्वेद · अध्याय 10.098
बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा ।
आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शंतनवे वृषाय ॥
आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् ।
प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ॥
अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् ।
यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश ॥
आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं सहस्रम् ।
नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य ॥
आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् ।
स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ॥
अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् ।
ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥
यद् देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् ।
देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ॥
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।
विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥
त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे ।
सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥
एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा ।
तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि ॥
एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् ।
विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु धेहि ॥
अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध ।
अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0