ऋग्वेद · अध्याय 10.097
या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा ।
मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥
शतं वो अम्ब धामानि सहस्रम् उत वो रुहः ।
अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥
ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे ।
सनेयम् अश्वं गां वास आत्मानं तव पूरुष ॥
अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता ।
गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥
यत्रौषधीः समग्मत राजानः समिताव् इव ।
विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥
अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥
उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते ।
धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः ।
सीराः पतत्रिणीः स्थन यद् आमयति निष् कृथ ॥
अति विश्वाः परिष्ठाः स्तेन इव व्रजम् अक्रमुः ।
ओषधीः प्राचुच्यवुर् यत् किं च तन्वो3 रपः ॥
यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः ।
ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ॥
साकं यक्ष्म प्र पत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत ।
ताः सर्वाः संविदाना इदम् मे प्रावता वचः ॥
याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः ।
बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥
मुञ्चन्तु मा शपथ्या3द् अथो वरुण्याद् उत ।
अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात् ॥
अवपतन्तीर् अवदन् दिव ओषधयस् परि ।
यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः ।
तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ॥
या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु ।
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥
मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।
द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ॥
याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः ।
सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ॥
त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः ।
उपस्तिर् अस्तु सो3 ऽस्माकं यो अस्माँ अभिदासति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0