भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.096

10.096.01

प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतम् मदम् ।
घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥

10.096.02

हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।
आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं हरिवन्तम् अर्चत ॥

10.096.03

सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः ।
द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥

10.096.04

दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या ।
तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ॥

10.096.05

त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः ।
त्वं हर्यसि तव विश्वम् उक्थ्य1म् असामि राधो हरिजात हर्यतम् ॥

10.096.06

ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो हर्यता हरी ।
पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥

10.096.07

अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा ।
अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ॥

10.096.08

हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत ।
अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ॥

10.096.09

स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥

10.096.10

उत स्म सद्म हर्यतस्य पस्त्यो3र् अत्यो न वाजं हरिवाँ अचिक्रदत् ।
मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ ॥

10.096.11

आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु प्रियम् ।
प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ॥

10.096.12

आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र ।
पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥

10.096.13

अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते ।
ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc