भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.095

10.095.01

हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु ।
न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन् ॥

10.095.02

किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव ।
पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ॥

10.095.03

इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः ।
अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त धुनयः ॥

10.095.04

सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् ।
अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ॥

10.095.05

त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि ।
पुरूरवो ऽनु ते केतम् आयं राजा मे वीर तन्व1स् तद् आसीः ॥

10.095.06

या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः ।
ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त ॥

10.095.07

सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्य1ः स्वगूर्ताः ।
महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः ॥

10.095.08

सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे ।
अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ॥

10.095.09

यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते ।
ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥

10.095.10

विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि ।
जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः ॥

10.095.11

जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः ।
अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि ॥

10.095.12

कदा सूनुः पितरं जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् ।
को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत् ॥

10.095.13

प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै ।
प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ॥

10.095.14

सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ ।
अधा शयीत निरृतेर् उपस्थे ऽधैनं वृका रभसासो अद्युः ॥

10.095.15

पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् ।
न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता ॥

10.095.16

यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश् चतस्रः ।
घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा चरामि ॥

10.095.17

अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं वसिष्ठः ।
उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं तप्यते मे ॥

10.095.18

इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि मृत्युबन्धुः ।
प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc