भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.094

10.094.01

प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।
यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम् भरथेन्द्राय सोमिनः ॥

10.094.02

एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः ।
विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत ॥

10.094.03

एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि ।
वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः ॥

10.094.04

बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्न् अना मधु ।
संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः ॥

10.094.05

सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः ।
न्य1ङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ॥

10.094.06

उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।
यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ॥

10.094.07

दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।
दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥

10.094.08

ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् ।
त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम् प्रथमस्य भेजिरे ॥

10.094.09

ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि ।
तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ॥

10.094.10

वृषा वो अंशुर् न किला रिषाथनेळावन्तः सदम् इत् स्थनाशिताः ।
रैवत्येव महसा चारवः स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम् ॥

10.094.11

तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः ।
अनातुरा अजराः स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥

10.094.12

ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते ।
अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम् अशुश्रवुः ॥

10.094.13

तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः ।
वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥

10.094.14

सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरं तुदन्तः ।
वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश् चायमानाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc