भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.093

10.093.01

महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदं नः ।
तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ॥

10.093.02

यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति ।
यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ॥

10.093.03

विश्वेषाम् इरज्यवो देवानां वार् महः ।
विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥

10.093.04

ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा ।
कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥

10.093.05

उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय सधन्या ।
सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ॥

10.093.06

उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् ।
महः स राय एषते ऽति धन्वेव दुरिता ॥

10.093.07

उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो रथस्पतिर् भगः ।
ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥

10.093.08

ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना ।
दुष्टरं यस्य साम चिद् ऋधग् यज्ञो न मानुषः ॥

10.093.09

कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् ।
सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥

10.093.10

ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः ।
पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥

10.093.11

एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न् अभिष्टये ।
सदा पाह्य् अभिष्टये मेदतां वेदता वसो ॥

10.093.12

एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् ।
संवननं नाश्व्यं तष्टेवानपच्युतम् ॥

10.093.13

वावर्त येषां राया युक्तैषां हिरण्ययी ।
नेमधिता न पौंस्या वृथेव विष्टान्ता ॥

10.093.14

प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु ।
ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम् ॥

10.093.15

अधीन् न्व् अत्र सप्ततिं च सप्त च ।
सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc