ऋग्वेद · अध्याय 10.092
यज्ञस्य वो रथ्यं विश्पतिं विशां होतारम् अक्तोर् अतिथिं विभावसुम् ।
शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत ॥
इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निं विदथस्य साधनम् ।
अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य निंसते ॥
बळ् अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे ।
यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन् ॥
ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अ1रमतिः पनीयसी ।
इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगः सविता पूतदक्षसः ॥
प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं दधन्विरे ।
येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते ॥
क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः ।
तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः ॥
इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश् च पौंस्ये ।
प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥
सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः ।
भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरिः स्तन्न् अबाधितः ॥
स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन ।
येभिः शिवः स्ववाँ एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः ॥
ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः ।
यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सं चिकित्रिरे ॥
ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् चतुरङ्गो यमो ऽदितिः ।
देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे ॥
उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो3 हवीमनि ।
सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥
प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपाद् अवतु वायुर् इष्टये ।
आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम् ॥
विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं गृणीमसि ।
ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा अधा पतिम् ॥
रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् ।
येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0