ऋग्वेद · अध्याय 10.080
अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं कर्मनिःष्ठाम् ।
अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीं वीरकुक्षिम् पुरंधिम् ॥
अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश ।
अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि ॥
अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् ।
अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम् ॥
अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति ।
अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥
अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः ।
अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ॥
अग्निं विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः ।
अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ॥
अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् ।
अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0