भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.079

10.079.01

अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु ।
नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः ॥

10.079.02

गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि ।
अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु ॥

10.079.03

प्र मातुः प्रतरं गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः ।
ससं न पक्वम् अविदच् छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥

10.079.04

तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
नाहं देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः ॥

10.079.05

यो अस्मा अन्नं तृष्व् आ3दधात्य् आज्यैर् घृतैर् जुहोति पुष्यति ।
तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ॥

10.079.06

किं देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् ।
अक्रीळन् क्रीळन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः ॥

10.079.07

विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् ।
चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc