भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.076

10.076.01

आ व ऋञ्जस ऊर्जां व्युष्टिष्व् इन्द्रम् मरुतो रोदसी अनक्तन ।
उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात उद्भिदा ॥

10.076.02

तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।
विदद् ध्य् अ1र्यो अभिभूति पौंस्यम् महो राये चित् तरुते यद् अर्वतः ॥

10.076.03

तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम् अश्रेत् ।
गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेम् अध्वरेष्व् अध्वराँ अशिश्रयुः ॥

10.076.04

अप हत रक्षसो भङ्गुरावतः स्कभायत निरृतिं सेधतामतिम् ।
आ नो रयिं सर्ववीरं सुनोतन देवाव्यम् भरत श्लोकम् अद्रयः ॥

10.076.05

दिवश् चिद् आ वो ऽमवत्तरेभ्यो विभ्वना चिद् आश्वपस्तरेभ्यः ।
वायोश् चिद् आ सोमरभस्तरेभ्यो ऽग्नेश् चिद् अर्च पितुकृत्तरेभ्यः ॥

10.076.06

भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।
नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो मिथस्तुरः ॥

10.076.07

सुन्वन्ति सोमं रथिरासो अद्रयो निर् अस्य रसं गविषो दुहन्ति ते ।
दुहन्त्य् ऊधर् उपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥

10.076.08

एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम् अद्रयः ।
वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय सुन्वते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc