ऋग्वेद · अध्याय 10.077
अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः ।
सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ॥
श्रिये मर्यासो अञ्जीँर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः ।
दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ॥
प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः ।
पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥
युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति ।
विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥
यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु ।
श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥
प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य वस्वः ।
विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ॥
य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् ।
रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ॥
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः ।
ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0