ऋग्वेद · अध्याय 10.056
इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्व1श् चारुर् एधि प्रियो देवानाम् परमे जनित्रे ॥
तनूष् टे वाजिन् तन्व1ं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ॥
वाज्य् असि वाजिनेना सुवेनीः सुवितः स्तोमं सुवितो दिवं गाः ।
सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म ॥
महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् ।
सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ॥
सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः ।
तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥
द्विधा सूनवो ऽसुरं स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा ।
स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम् आततम् ॥
नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा ।
स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0