ऋग्वेद · अध्याय 10.057
मा प्र गाम पथो वयम् मा यज्ञाद् इन्द्र सोमिनः ।
मान्तः स्थुर् नो अरातयः ॥
यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः ।
तम् आहुतं नशीमहि ॥
मनो न्व् आ हुवामहे नाराशंसेन सोमेन ।
पितॄणां च मन्मभिः ॥
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥
वयं सोम व्रते तव मनस् तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0