भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.051

10.051.01

महत् तद् उल्बं स्थविरं तद् आसीद् येनाविष्टितः प्रविवेशिथापः ।
विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः ॥

10.051.02

को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् ।
क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो देवयानीः ॥

10.051.03

ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व् ओषधीषु ।
तं त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद् अतिरोचमानम् ॥

10.051.04

होत्राद् अहं वरुण बिभ्यद् आयं नेद् एव मा युनजन्न् अत्र देवाः ।
तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थं न चिकेताहम् अग्निः ॥

10.051.05

एहि मनुर् देवयुर् यज्ञकामो ऽरंकृत्या तमसि क्षेष्य् अग्ने ।
सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः ॥

10.051.06

अग्नेः पूर्वे भ्रातरो अर्थम् एतं रथीवाध्वानम् अन्व् आवरीवुः ।
तस्माद् भिया वरुण दूरम् आयं गौरो न क्षेप्नोर् अविजे ज्यायाः ॥

10.051.07

कुर्मस् त आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः ।
अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥

10.051.08

प्रयाजान् मे अनुयाजाँश् च केवलान् ऊर्जस्वन्तं हविषो दत्त भागम् ।
घृतं चापाम् पुरुषं चौषधीनाम् अग्नेश् च दीर्घम् आयुर् अस्तु देवाः ॥

10.051.09

तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः ।
तवाग्ने यज्ञो3 ऽयम् अस्तु सर्वस् तुभ्यं नमन्ताम् प्रदिशश् चतस्रः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc