ऋग्वेद · अध्याय 10.049
अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं वर्धनम् ।
अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन् भरे ॥
मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च जन्तवः ।
अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्व् आ ददे ॥
अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः ।
अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ॥
अहम् पितेव वेतसूँर् अभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् ।
अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न प्रियाधृषे ॥
अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना चनानुषक् ।
अहं वेशं नम्रम् आयवे ऽकरम् अहं सव्याय पड्गृभिम् अरन्धयम् ॥
अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् ।
यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ॥
अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान ओजसा ।
यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं कृत्व्यं हथैः ॥
अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् ।
अहं न्य् अ1न्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ॥
अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।
अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम् इष्टये ॥
अहं तद् आसु धारयं यद् आसु न देवश् चन त्वष्टाधारयद् रुशत् ।
स्पार्हं गवाम् ऊधःसु वक्षणास्व् आ मधोर् मधु श्वात्र्यं सोमम् आशिरम् ॥
एवा देवाँ इन्द्रो विव्ये नॄन् प्र च्यौत्नेन मघवा सत्यराधाः ।
विश्वेत् ता ते हरिवः शचीवो ऽभि तुरासः स्वयशो गृणन्ति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0