भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.048

10.048.01

अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि शश्वतः ।
मां हवन्ते पितरं न जन्तवो ऽहं दाशुषे वि भजामि भोजनम् ॥

10.048.02

अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम् अहेर् अधि ।
अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन् दधीचे मातरिश्वने ॥

10.048.03

मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो ऽवृजन्न् अपि क्रतुम् ।
ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन कर्त्वेन च ॥

10.048.04

अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना हिरण्ययम् ।
पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो अमन्दिषुः ॥

10.048.05

अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे ऽव तस्थे कदा चन ।
सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥

10.048.06

अहम् एताञ् छाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये ऽकृण्वत ।
आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्न् अनमस्युर् नमस्विनः ॥

10.048.07

अभी3दम् एकम् एको अस्मि निष्षाळ् अभी द्वा किम् उ त्रयः करन्ति ।
खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति शत्रवो ऽनिन्द्राः ॥

10.048.08

अहं गुङ्गुभ्यो अतिथिग्वम् इष्करम् इषं न वृत्रतुरं विक्षु धारयम् ।
यत् पर्णयघ्न उत वा करञ्जहे प्राहम् महे वृत्रहत्ये अशुश्रवि ॥

10.048.09

प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता ।
दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ॥

10.048.10

प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था कृणोति ।
स तिग्मशृङ्गं वृषभं युयुत्सन् द्रुहस् तस्थौ बहुले बद्धो अन्तः ॥

10.048.11

आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम ।
ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाळ्हम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc