ऋग्वेद · अध्याय 10.044
आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस् तुविष्मान् ।
प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन ॥
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
शीभं राजन् सुपथा याह्य् अर्वाङ् वर्धाम ते पपुषो वृष्ण्यानि ॥
एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम् ।
प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा सधमादो वहन्तु ॥
एवा पतिं द्रोणसाचं सचेतसम् ऊर्जः स्कम्भं धरुण आ वृषायसे ।
ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो वृधे ॥
गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् आ याहि सोमिनः ।
त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव पात्राणि धर्मणा ॥
पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा ।
न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ॥
एवैवापाग् अपरे सन्तु दूढ्यो ऽश्वा येषां दुर्युज आयुयुज्रे ।
इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥
गिरीँर् अज्रान् रेजमानाँ अधारयद् द्यौः क्रन्दद् अन्तरिक्षाणि कोपयत् ।
समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
इमम् बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ् छफारुजः ।
अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य् आभगः ॥
गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ॥
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः ।
इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0